पुरा किल पर-ब्रह्म-अनुग्रह-शक्ति-रूपायाः पर-देवतायाः सगुण-रूपां – पाशाङ्कुश-धनुर्बाण- परिष्कृत-चतुर्भुजाम् – श्रीदेवी इति आदि-लक्ष्मीः इति च कीर्तितां ल – त्रि-मूर्ति-सर्गादपि पुरा- भवत्त्वात्, पुरैव त्रयी-मय-त्वात्, त्रिलोकी-लय-पूरणत्वाच्च त्रिपुरा इति प्रसिद्धाम् * – उच्चारण- मात्र-प्रसन्नता-लब्ध-सर्व-मङ्गल-हेतु-भूत-वर्ण-त्रयात्मकेन मूल-नाम्ना कामाक्षी इति विख्यातां ल – कोटि-काम-विश्राणनेन कामाख्य-तृतीय-पुरुषार्थ-कोटि-स्थ-मोक्ष-रूप-चतुर्थ-पुरुषार्थ-प्रदतया च कामकोटिः इति श्रुतां का – महागौरी इति मूर्ति-नामान्तर-वतीं सर्व-शृङ्गार-वेषाढ्यां महा-लावण्य- शेवधिं
कामेश्वराय महेश्वराय वेदात्मक-एकाम्रतरु-मूल-निवासाय तद्-बीज-भूताय – मार्कण्डेय- प्रार्थित-प्रलय-कालिक-रक्षाय तदनुग्रह-हेतवे महाप्रलयजित्-संज्ञिते सत्यव्रत-क्षेत्रे तं रसाल-वृक्षम् आविर्भावितवते – मृगाङ्कुश-वराभीति-विराजित-चतुर्भुजाय कुन्देन्दु-धवलाकाराय नित्य- कल्याण-सुन्दराय व्याघ्र-चर्म-परीधानाय गज-चर्मोत्तरीयकाय भस्मोद्धूलित-सर्वाङ्गाय त्रि-नेत्राय शशि-शेखराय – रुद्र-कोट्यां निवासेन रुद्र-कोटिः इति श्रुताय – शम्भवे प्रदातुं
पुण्डरीकाक्षो महाविष्णुः पुण्य-कोटि-विमान-च्छाया-विराजमानः अभीष्ट-वरद-राजः कल्याण-कोटि-विमान-मूल-निवासिन्या महादेव्या कमलासनया सनाथः कमलासनेन, परमेष्ठिना च सरस्वती-वल्लभेन सादरेण सहितः
तत्-तद्-वासरानुसार-तत्-तत्-तीर्थ-विशेष-स्नान-परैः राज-वीथी-गत-मण्डप-श्रेणी- समाराधित-देवता-श्रेणीकैः पुण्य-लोलुपैः आस्तिक-महाजनैः सेविते, भुवः परे नाभि-स्थाने काञ्ची- पुराख्ये मोक्षपुरे कामकोष्ठ-धरा-तले महामहं प्रवर्तयिष्यन्
समाहूतैः आखण्डलादि-देवैः वसिष्ठादि-मुनीश्वरैः सनकादि-योगीन्द्रैः नारदादि-सुरर्षिभिः वामदेव-शुक-प्रभृतिभिः जीवन्मुक्तैः यक्ष-किन्नर-गन्धर्व-सिद्ध-विद्याधर-उरगैः महाशास्त्रा गणाग्रण्या दुर्गादिभिः मातृभिः अन्याभिश्च सर्वाभिः देवताभिः
अहम्पूर्विकया दिग्भ्यः स्वर्गाच्च क्षणात् समुपाहृतैः सम्भारैः सुमनोहरैः काञ्चीपुर-वीथीः मण्डयित्वा, मण्डपान् शाला-हर्म्यादिकान् अपि रम्भा-स्तम्भ-इक्षु-नारङ्ग-नारिकेल-आम्र-फलैः कुन्द-अरविन्द-मन्दार-पाटली-पारिजात-मल्लिका-चम्पक-अशोक-केतकी-बकुल-पुष्पैः चित्र- वितानैः गन्धवत्-तैल-संसिक्त-स्निग्ध-चन्द्रकान्त-मणि-कुट्टिमैः शातकुम्भ-कनत्-कुम्भैः माणिक्य- मणि-तोरणैश्च विभूष्य
ल ललितोपाख्याने * प्रपञ्चसारे का कामाक्षीविलासे 1 / 5
देदीप्यमान-हेमाढ्य-दिव्य-वस्त्रैः विराजिते, सुवर्ण-पूर्ण-कुम्भाग्र-लसद्-दीपोपशोभिते, धगद्धगित-हेमाढ्य-दर्पण-व्रज-मण्डिते, स्वर्ण-पाञ्चालिका-कोटि-कर-दीप-विराजिते, हेम-मद्दल- निस्साण-मुरली-काहली-रवैः वीणा-वेणुरवैः अपि मुखरी-कृत-दिग्भागे, अप्सरो-नाट्य-गन्धर्व- गीत-मनोहरे, क्वचित् मुनि-जनानीक-स्वस्ति-वाचन-घोषिते, क्वचिद् देवासुरैः कॢप्त-सेवा-कलह- शब्दिते, नाना-देश-समायात-कुल-स्त्री-गण-राज-मण्डल-भूषिते, कल-धौत-कला-बद्ध-रम्भा- स्तम्भालि-मेदुरे स्फटिकोपल-सोपान-जालकाङ्कित-मार्गके, सुवर्ण-चित्रितोल्लासि-पताका- समलङ्कृते, चारु-चामीकराभास-कल्याण-मणि-मण्टपे, सुसार-रत्न-वैदूर्य-हेम-सिंहासनोत्तमे, वज्र- माणिक्य-सङ्कीर्ण-कल्याण-मणि-पीठके
किरीट-हार-केयूर-मणि-कुण्डल-भूषणैः भूषितं, स्वर्ण-चित्राढ्य-पट्टाम्बर-परिष्कृतं शङ्करम् उपवेश्य
भुवन-त्रय-सुन्दरीं, शिञ्जत्-काञ्चन-मञ्जीर-रञ्जिताङ्घ्रि-सरोरुहां, कनत्-काञ्चन- देदीप्यत्-काञ्ची-बद्ध-कटीतटां, मुक्ता-कञ्चुक-संवीत-पीन-वक्षोज-मण्डलां, रत्नाङ्गुलीय-सन्दोह- रमणीय-कराङ्गुलिं, कुरुविन्द-दलाबद्ध-कटकात्त-कराम्बुजां, नाग-माणिक्य-सम्प्रोत-मुक्ता-दाम- लसद्-गलां, मार्तण्ड-मण्डलाकार-रत्न-कुण्डल-मण्डितां, नासा-मुक्ता-मणी-व्याज-तारकात्त- अब्ज-वक्त्रकां, निज-सीमन्त-सीमान्त-आश्याम-वज्र-ललन्तिकां, फालान्त-विलसद्-रत्न- मल्लिका-मणि-शोभितां, वाली-रत्न-प्रभा-पाली-परीत-श्रवण-द्वयां, मुक्ता-रत्न-स्फुरच्चूली- रमणीय-शिरोरुहां, नितम्ब-बिम्ब-संलम्ब-मणि-रञ्जित-वेणिकां, तटित्-प्रतिभट-आकार-स्वर्ण- पीताम्बरावृतां, कस्तूरी-घनसाराढ्य-दिव्य-चन्दन-चर्चितां, मल्ली-चम्पक-पुष्पादि-माला-जाल समन्वितां, मन्द-स्मितोदरोत्पुष्प-शोण-बिम्ब-अधरोज्ज्वलां, नव-यौवन-सम्भूत-सौन्दर्य-अतिथि- देवतां, कामाक्षीम् उत्पलाभाक्षीं देवीम् अक्षीण-वैभवां
श्रीमद्-एकाम्रनाथस्य पार्श्वे सव्ये निवेश्य
रमा-वाणीभ्यां गृहीत-सित-चामराभ्यां संयत्ताभ्यां वीज्यमानयोः
जिह्वा-सहस्रवता वर्णयितुं प्रयतनीयं, दम्पत्योः जगतां पत्योः पाणिग्रहण-मङ्गलम्, आदि- स्त्री-पुंसयोः तयोः कल्याणं कारयामास।
ययोश्च नित्यं पादपद्माराधकाः – कल्यादिमे सार्ध-सहस्र-द्वितयात् परं, “कैलास-नग-वट- नग-मूलेन अलं, करवाणि लोक-सङ्ग्रहम्, अलङ्करवाणि च भारतावनिम्” इति सङ्कल्पवता महाप्राज्ञेन परमशिवावतारेण परम-शिवा-वर्णक-सौन्दर्य-लहरी-कविता-चणेन, शैव-वैष्णवादि- नैक-देवालय-गत-शिल्पादि-प्रत्यक्ष-नाना-विध-तप-उपासनादि-मुद्रा-भद्रेण तत्-प्रमाणीकृत- काञ्चीपुर-घनिष्ठ-सम्बन्धेन तन्नगर-वृन्दिष्ठेन श्री-शङ्कराचार्येण भगवत्पादेन भगवता श्रीचक्रं स्वयम् आलिखितवता, अत्रैव सर्वज्ञ-पीठम् आरूढवता, अत्रैव शारदा-मठं स्थापितवता, अत्रैव चान्ते देव्याः पुरः परतरे पुरुषे विलीनवता, अत्रैव कामकोटि-संज्ञके आचार्य-पीठे श्री-सुरेश्वर-सर्वज्ञात्म- प्रभृतिक-स्व-शिष्य-परम्परागत-तपोरक्षणार्थ-मस्कर-सख-मस्करि-वर्य-रूप-पुनरवतारताऽवता सदा वसुधाम् – अधिष्ठितम् अध्वानम् अनुसरन्तः त एव संयमिनः, अद्य-पर्यन्त-वेद-वैदिक-धर्म- रक्षण-दक्ष-तदेक-ध्यान-सन्तत-प्रयत्नाः शिवानुगृहीत-महात्रिपुरसुन्दरी-समेत-योग-लिङ्ग- चन्द्रमौलीश्वर-त्रिकाल-वरिवस्या-परिपश्यद्-भक्त-मण्डली-नयनाह्लाद-कराः अनादि-भगवती- मन्दिर-निनादि-घण्टादि-सकल-विधोपचार-समर्पणेन तन्मन्दिरमिव स्वं व्रतमिव लोके धर्मं पालयन्तः, द्विषष्टितम-जगद्गुरु-श्री-चन्द्रशेखरेन्द्र-सरस्वती-शङ्कराचार्य-श्रीचरण-प्रभृतयः तद्- भक्ताश्च शिष्टाः इदं लग्नाष्टकं1 पठन्ति –
एकं मोक्ष-फलं प्रसोतु·मय·म·स्त्येको रसालो महान्
वेदाख्योऽस्य च बीज·मेक·मय·मेवा·सीत् शिवः शङ्करः ।
कामा·नक्षि-विलासतो वितरति प्रेष्ठाऽस्य या शङ्करी
1 मूलम् – १~५ कामाक्षीविलासः, ६ ज्यौतिषशास्त्रं, ७ दुर्वासःकृतं स्वयंवरापार्वतीस्तोत्रं, ८
स्वमनोधर्मः, ९ मणिवाचकस्वामिनः “आशादशकम्”
सा माता जगतां तयोः परिणये शं योर्मयो2 मङ्गलम् ॥ १ ॥
मार्कण्डेय-मुखान् निजान् शिशु-गणान् संरक्षितुं वाञ्छया
श्री-काञ्ची-प्रभृतीन् समान् जनपदान् कर्तुं पवित्रान् शुभान् ।
स्थाणुः स्थाणुतया स्थितो भगवती सू·च्यग्रतोऽतप्यत
सोढ्वा क्लेश-चयं प्रजासु पितरौ धत्तोऽन्वहं मङ्गलम् ॥ २ ॥
शाप-व्याज-मुनी·न्द्र-याचित-शिशु·स्तद्-दत्त-दण्डा·दिना
काश्या·मन्न-सुपूरणा स्व-तपसे प्राप्ता दिशं दक्षिणाम् ।
भर्ग-प्रेषित-गाङ्ग-तोय-निवहं साऽशोषयद् दुर्गया
प्रत्यूहं प्रतिबध्य तद् वितरतात् सत्-कर्मणो मङ्गलम् ॥ ३ ॥
शर्वः केश-विमोचनेन निखिलां गङ्गां यदाऽवाहयद्
भ्रात्रा सन्निहितेन सान्त्वि त-मना·श्त·च्चोदिता·मोदिनी ।
सर्व-प्रेम-भृ·दालिलिङ्ग निबिडं वक्षःकर-स्था·ङ्कितम्
आविर्भूत·मवाप सा स्मित-मुखं हृष्टा सदा-मङ्गलम् ॥ ४ ॥
मीने मासि भगा·धिपे स भगवा·नृक्षे कराभ्यां प्रियाम्
उत्थाप्या·र्ध-निवेशनेन वश-ग·स्तस्या अभूद् भक्तितः ।
विष्णु·र्ब्रह्म-सहायवान् कमलया वाण्या भृशा·लङ्कृतां
दत्त्वा स्वां भगिनीं तयोः स्म तनुते वैवाहिकं मङ्गलम् ॥ ५ ॥
वध्वा लोक-गुरु·र्बलं पर-शिवः पूर्वैः स्तुतो योगिभिः
कान्ता-कान्ति-सहस्र-रश्मि-बलवान् सौन्दर्य-नद्या वरः ।
कारुण्या·मृत-वर्षि-चन्द्र-वदन-प्राबल्य-वन्ता·वुभौ
दम्पत्यो·र्ननु चा·द्ययो·र्ग्रह-बलात्3 किं नूतनं मङ्गलम् ॥ ६ ॥
अन्यो·न्ये·क्षण-पूर्ण-फुल्ल-वदने शम्भोः शिवायाः शशी
वीक्ष्या·प्या·तितनुत्व·मास्त मकुटे व्रीडै·क-पूर्णो मनाक् ।
त·न्मन्द-स्मित-युग्मतः परिभवं प्राप्तः स्वरूपं जहत्
2 शं = ऐहिक-सुख-प्राप्तिः, योः = दुःख-निवृत्तिः, मयः = आमुष्मिक-सुख-प्राप्तिः
3 विवाह-समये वध्वाः गुरु-बलम्, वरस्य सूर्य-बलम्, उभयोः चन्द्र-बलं च अपेक्षितम्
नक्षत्रा·भ-नखा·न्विता·ङ्घ्रि-पतितो देयाद् भुवो मङ्गलम् ॥ ७ ॥
माला-भूष-करा सु-लेश-हसना रम्य-क्वण·न्नूपुरा
सर्पो·द्वेग-निवारि-राग-विवशा पाणौ गृहीता हृदि ।
शोण-प्रान्त-नया विलज्जित-गति·र्गाढं शिवा·श्लेष-गा
कम्पा·ढ्या·ङ्ग-वचाः प्रमोद-जननी देवस्य सा मङ्गलम् ॥ ८ ॥
[सा·म्बं त्वां शिव-पु·र्युपेत्य मृदुलौ पादौ गृहीत्वा दृढं
मूर्ध्न्याधाय नितान्त·“मीश भगवन् मद्-देशिके”·त्युद्गिरन् ।
अग्नि-स्पृष्ट-जतुत्व·माप्य युवयोः कारुण्यतोऽमुच्यत
यत् कश्चित् त·दुमापते प्रदिशतात् नित्यं सुखं मङ्गलम् ॥ ९ ॥]
इति श्री-काञ्ची-कामकोटि-पीठाधीश्वर-कृपा-पात्रेण श्री-सदाशिव-ब्रह्मेन्द्र-सन्निधि-वास्तव्येन श्रीरमणशर्मणा विरचिते कामाक्षी-कल्याणोत्सव-चूर्णिका-मङ्गलाष्टके सम्पूर्णे ॥ 5 / 5